प्रथमेनार्जिता विद्या.. (Prathame Narjita Vidya..)
प्रथमेनार्जिता विद्या,
द्वितीयेनार्जितं धनं ।
तृतीयेनार्जितः कीर्तिः,
चतुर्थे किं करिष्यति ॥
सरल रूपांतरण:
प्रथमे नार्जिता विद्या,
द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं,
चतुर्थे किं करिष्यति ॥
हिन्दी भावार्थ:
जिस व्यक्ति ने, पहले आश्रम (ब्रम्हचर्य) में विद्या अर्जित नहीं की। दूसरे आश्रम (गृहस्थ) में धन अर्जित नहीं किया। तीसरे आश्रम (वानप्रस्थ) में पुण्य अर्जित नहीं किया। हे मनुष्य अब चौथे आश्रम (सन्यास) में क्या करोगे?
अर्थात- मनुष्य के जीवन में चार आश्रम होते है ब्रम्हचर्य, गृहस्थ ,वानप्रस्थ और सन्यास। जिसने पहले तीन आश्रमों में निर्धारित कर्तव्य का पालन किया, उसे चौथे आश्रम / सन्यास में मोक्ष के लिए प्रयास नहीं करना पड़ता है।
Read More...
वयं राष्ट्रे जागृयाम.. (Vayam Rashtre Jagrayam)
वयं राष्ट्रे जागृयाम पुरोहिताः - यजुर्वेद ९:२३
हिन्दी भावार्थ:
हम पुरोहित राष्ट्र को जीवंत एवं जाग्रत बनाए रखेंगे। पुरोहित का अर्थ होता है जो इस पुर का हित करता है। प्राचीन भारत में शायद ऐसे व्यक्तियों को पुरोहित कहते थे, जो राष्ट्रीय-चरित्र, राष्ट्रीय-गौरव, राष्ट्रीय-मर्यादा, राष्ट्रीय-आत्मीयता, राष्ट्रीय-समृद्धि आदि की वृद्धि और उत्कर्ष की बात का दूरगामी हित समझकर उसकी प्राप्ति की व्यवस्था करते थे। पुरोहित में चिन्तक और साधक दोनों के गुण होते हैं, जो सही परामर्श दे सकें। हे पुरोहितो, इस राष्ट्र में जागृति लाओ और इस राष्ट्र की रक्षा करो। राष्ट्रजागरण का महान् कार्य तो जाग्रत् अन्तःकरण वाले व्यक्तियों का है।
Read More...
बिल्वाष्टोत्तरशतनामस्तोत्रम् (Bilva Ashtottara Shatnam Stotram)
अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥
सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।
सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥ ३॥
नागाधिराजवलयं नागहारेण भूषितम् ।
नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥ ४॥
अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ५॥
त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।
विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥ ६॥
त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ७॥
गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।
कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥ ८॥
शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।
सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥ ९॥
सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।
वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥ १०॥
शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।
हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥ ११॥
अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।
ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥ १२॥
हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।
अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥ १३॥
पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।
नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥ १४॥
सुराश्रयं विषहरं वर्मिणं च वरूधिनम्
महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥ १५॥
कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।
तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥ १६॥
दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।
अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥ १७॥
नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।
महापापसंहारं एकबिल्वं शिवार्पणम् ॥ १८॥
चूडामणीकृतविभुं वलयीकृतवासुकिम् ।
कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥ १९॥
कर्पूरकुन्दधवलं नरकार्णवतारकम् ।
करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥ २०॥
महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।
महापापहरं देवं एकबिल्वं शिवार्पणम् ॥ २१॥
भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।
वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥ २२॥
फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।
नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥ २३॥
कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।
वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥ २४॥
सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।
मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥ २५॥
दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।
मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥ २६॥
सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।
निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥ २७॥
सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।
सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥ २८॥
सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।
सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ २९॥
मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।
कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥ ३०॥
तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।
भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ ३१॥
स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।
नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥ ३२॥
मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।
फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥ ३३॥
निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।
तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ ३४॥
सर्वलोकैकपितरं सर्वलोकैकमातरम् ।
सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥ ३५॥
चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।
नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥ ३६॥
रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।
नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ ३७॥
दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।
नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ ३८॥
रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।
भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ ३९॥
वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।
पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥ ४०॥
सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।
सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥ ४१॥
नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।
विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ ४२॥
अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।
धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ ४३॥
गौरीविलाससदनं जीवजीवपितामहम् ।
कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥ ४४॥
सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।
दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥ ४५॥
सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।
अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥ ४६॥
सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।
सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ ४७॥
जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।
जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥ ४८॥
विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।
वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ ४९॥
गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।
जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥ ५०॥
त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।
दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥ ५१॥
कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।
कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥ ५२॥
कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।
शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ ५३॥
जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।
पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥ ५४॥
सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।
ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥ ५५॥
मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।
बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ ५६॥
महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।
सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥
बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।
परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५८॥
युगाकारं युगाधीशं युगकृद्युगनाशनम् ।
परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५९॥
धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।
कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ ६०॥
सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।
योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥ ६१॥
उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।
भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥ ६२॥
विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।
विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥ ६३॥
कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।
ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥ ६४॥
लावण्यमधुराकारं करुणारसवारधिम् ।
भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥ ६५॥
जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।
कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ ६६॥
शिवं शान्तं उमानाथं महाध्यानपरायणम् ।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६७॥
वासुक्युरगहारं च लोकानुग्रहकारणम् ।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६८॥
शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् ।
शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥ ६९॥
शरणागतदीनार्तपरित्राणपरायणम् ।
गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥
भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् ।
करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥ ७१॥
क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।
व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥ ७२॥
भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।
हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥ ७३॥
दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।
हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ ७४॥
महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।
वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ ७५॥
स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् ।
जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ ७६॥
रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।
रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥ ७७॥
फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् ।
दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥ ७८॥
नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।
मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ ७९॥
मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।
सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८०॥
निधनेशं धनाधीशं अपमृत्युविनाशनम् ।
लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥ ८१॥
भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।
कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥ ८२॥
घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।
कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥ ८३॥
मातङ्गचर्मवसनं विराड्रूपविदारकम् ।
विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥ ८४॥
यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।
यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ ८५॥
कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।
योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८६॥
महोन्नतमहाकायं महोदरमहाभुजम् ।
महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥ ८७॥
सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।
महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥ ८८॥
समस्तजगदाधारं समस्तगुणसागरम् ।
सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥
माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।
दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥ ९०॥
तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।
प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥ ९१॥
तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ९२॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ९३॥
तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।
पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥ ९४॥
अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।
मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ९५॥
सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।
साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९६॥
दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।
सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥ ९७॥
चतुर्वेदसहस्राणि भारतादिपुराणकम् ।
साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९८॥
सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।
तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥ ९९॥
अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।
अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥ १००॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ १०१॥
अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।
त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥ १०२॥
दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् ।
सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०३॥
पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।
अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥ १०४॥
विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।
तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥ १०५॥
त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् ।
जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥ १०६॥
अनेकदानफलदं अनन्तसुकृतादिकम् ।
तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०७॥
त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।
भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥ १०८॥
उमयासहितं देवं सवाहनगणं शिवम् ।
भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ १०९॥
सालग्रामसहस्राणि विप्राणां शतकोटिकम् ।
यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ११०॥
अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् ।
तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ १११॥
अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।
मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥ ११२॥
एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् ।
महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ ११३॥
एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् ।
द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् ।
त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् ।
अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ ११४॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ ११५॥
कोटिजन्मकृतं पापं अर्चनेन विनश्यति ।
सप्तजन्मकृतं पापं श्रवणेन विनश्यति ।
जन्मान्तरकृतं पापं पठनेन विनश्यति ।
दिवारात्रकृतं पापं दर्शनेन विनश्यति ।
क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति ।
पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ॥ ११६॥
इति बिल्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Read More...
ऋण मोचक मङ्गल स्तोत्रम् (Rin Mochan Mangal Stotram)
मंगल ग्रह को शक्ति, ऊर्जा, आत्मविश्वास और पराक्रम का स्वामी तथा नवग्रहों का सेनापति माना गया है। इनका प्रमुख रंग लाल तथा राशि मेष मानी गई है।
श्री मङ्गलाय नमः ॥
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥1॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥2॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥3॥
एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥4॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥5॥
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥6॥
अङ्गारक महाभाग भगवन्भक्तवत्सल ।
त्वां नमामि ममाशेषमृणमाशु विनाशय ॥7॥
ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥8॥
अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् ॥9॥
विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥10॥
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ॥11॥
एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥12॥
॥ इति श्री ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम् ॥
Read More...
भक्तामर स्तोत्र - भक्तामर-प्रणत-मौलि-मणि-प्रभाणा (Bhaktamara Stotra)
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
मुद्योतकं दलित-पाप-तमो-वितानम् ।
सम्यक्-प्रणम्य जिन प-पाद-युगं युगादा-
वालम्बनं भव-जले पततां जनानाम् ॥1॥
य: संस्तुत: सकल-वां मय-तत्त्व-बोधा-
दुद्भूत-बुद्धि-पटुभि: सुर-लोक-नाथै: ।
स्तोत्रैर्जगत्-त्रितय-चित्त-हरैरुदारै:,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥
बुद्ध्या विनापि विबुधार्चित-पाद-पीठ!
स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् ।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥3॥
वक्तुं गुणान्गुण-समुद्र ! शशांक-कान्तान्,
कस्ते क्षम: सुर-गुरु-प्रतिमोऽपि बुद्ध्या ।
कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं ,
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥4॥
सोऽहं तथापि तव भक्ति-वशान्मुनीश!
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्त: ।
प्रीत्यात्म-वीर्य-मविचार्य मृगी मृगेन्द्रम्
नाभ्येति किं निज-शिशो: परिपालनार्थम् ॥5॥
अल्प-श्रुतं श्रुतवतां परिहास-धाम,
त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् ।
यत्कोकिल: किल मधौ मधुरं विरौति,
तच्चाम्र-चारु-कलिका-निकरैक-हेतु: ॥6॥
त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,
पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।
आक्रान्त-लोक-मलि-नील-मशेष-माशु,
सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम् ॥7॥
मत्वेति नाथ! तव संस्तवनं मयेद,-
मारभ्यते तनु-धियापि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ता-फल-द्युति-मुपैति ननूद-बिन्दु: ॥8॥
आस्तां तव स्तवन-मस्त-समस्त-दोषं,
त्वत्संकथाऽपि जगतां दुरितानि हन्ति ।
दूरे सहस्रकिरण: कुरुते प्रभैव,
पद्माकरेषु जलजानि विकासभांजि ॥9॥
नात्यद्-भुतं भुवन-भूषण ! भूूत-नाथ!
भूतैर्गुणैर्भुवि भवन्त-मभिष्टुवन्त: ।
तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ॥10॥
दृष्ट्वा भवन्त मनिमेष-विलोकनीयं,
नान्यत्र-तोष-मुपयाति जनस्य चक्षु: ।
पीत्वा पय: शशिकर-द्युति-दुग्ध-सिन्धो:,
क्षारं जलं जलनिधेरसितुं क इच्छेत्?॥11॥
यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,
निर्मापितस्-त्रि-भुवनैक-ललाम-भूत !
तावन्त एव खलु तेऽप्यणव: पृथिव्यां,
यत्ते समान-मपरं न हि रूप-मस्ति ॥12॥
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,
नि:शेष-निर्जित-जगत्त्रितयोपमानम् ।
बिम्बं कलंक-मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डुपलाश-कल्पम् ॥13॥
सम्पूर्ण-मण्डल-शशांक-कला-कलाप-
शुभ्रा गुणास्-त्रि-भुवनं तव लंघयन्ति ।
ये संश्रितास्-त्रि-जगदीश्वरनाथ-मेकं,
कस्तान् निवारयति संचरतो यथेष्टम् ॥14॥
चित्रं-किमत्र यदि ते त्रिदशांग-नाभिर्-
नीतं मनागपि मनो न विकार-मार्गम् ।
कल्पान्त-काल-मरुता चलिताचलेन,
किं मन्दराद्रिशिखरं चलितं कदाचित् ॥15॥
निर्धूम-वर्ति-रपवर्जित-तैल-पूर:,
कृत्स्नं जगत्त्रय-मिदं प्रकटीकरोषि ।
गम्यो न जातु मरुतां चलिताचलानां,
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश: ॥16॥
नास्तं कदाचिदुपयासि न राहुगम्य:,
स्पष्टीकरोषि सहसा युगपज्-जगन्ति ।
नाम्भोधरोदर-निरुद्ध-महा-प्रभाव:,
सूर्यातिशायि-महिमासि मुनीन्द्र! लोके ॥17॥
नित्योदयं दलित-मोह-महान्धकारं,
गम्यं न राहु-वदनस्य न वारिदानाम् ।
विभ्राजते तव मुखाब्ज-मनल्पकान्ति,
विद्योतयज्-जगदपूर्व-शशांक-बिम्बम् ॥18॥
किं शर्वरीषु शशिनाह्नि विवस्वता वा,
युष्मन्मुखेन्दु-दलितेषु तम:सु नाथ!
निष्पन्न-शालि-वन-शालिनी जीव-लोके,
कार्यं कियज्जल-धरै-र्जल-भार-नमै्र: ॥19॥
ज्ञानं यथा त्वयि विभाति कृतावकाशं,
नैवं तथा हरि-हरादिषु नायकेषु ।
तेजो महा मणिषु याति यथा महत्त्वं,
नैवं तु काच-शकले किरणाकुलेऽपि ॥20॥
मन्ये वरं हरि-हरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्षितेन भवता भुवि येन नान्य:,
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥21॥
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,
नान्या सुतं त्वदुपमं जननी प्रसूता ।
सर्वा दिशो दधति भानि सहस्र-रश्मिं,
प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥22॥
त्वामामनन्ति मुनय: परमं पुमांस-
मादित्य-वर्ण-ममलं तमस: पुरस्तात् ।
त्वामेव सम्य-गुपलभ्य जयन्ति मृत्युं,
नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था: ॥23॥
त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,
ब्रह्माणमीश्वर-मनन्त-मनंग-केतुम् ।
योगीश्वरं विदित-योग-मनेक-मेकं,
ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त: ॥24॥
बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,
त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् ।
धातासि धीर! शिव-मार्ग विधेर्विधानाद्,
व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥25॥
तुभ्यं नमस्-त्रिभुवनार्ति-हराय नाथ!
तुभ्यं नम: क्षिति-तलामल-भूषणाय ।
तुभ्यं नमस्-त्रिजगत: परमेश्वराय,
तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥
को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्-
त्वं संश्रितो निरवकाशतया मुनीश !
दोषै-रुपात्त-विविधाश्रय-जात-गर्वै:,
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥27॥
उच्चै-रशोक-तरु-संश्रितमुन्मयूख-
माभाति रूपममलं भवतो नितान्तम् ।
स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं,
बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति ॥28॥
सिंहासने मणि-मयूख-शिखा-विचित्रे,
विभ्राजते तव वपु: कनकावदातम् ।
बिम्बं वियद्-विलस-दंशुलता-वितानं
तुंगोदयाद्रि-शिरसीव सहस्र-रश्मे: ॥29॥
कुन्दावदात-चल-चामर-चारु-शोभं,
विभ्राजते तव वपु: कलधौत-कान्तम् ।
उद्यच्छशांक-शुचिनिर्झर-वारि-धार-
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥30॥
छत्रत्रयं-तव-विभाति शशांककान्त,
मुच्चैः स्थितं स्थगित भानुकर-प्रतापम् ।
मुक्ताफल-प्रकरजाल-विवृद्धशोभं,
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥31॥
गम्भीर-तार-रव-पूरित-दिग्विभागस्-
त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्ष: ।
सद्धर्म-राज-जय-घोषण-घोषक: सन्,
खे दुन्दुभि-ध्र्वनति ते यशस: प्रवादी ॥32॥
मन्दार-सुन्दर-नमेरु-सुपारिजात-
सन्तानकादि-कुसुमोत्कर-वृष्टि-रुद्घा ।
गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,
दिव्या दिव: पतति ते वचसां ततिर्वा ॥33॥
शुम्भत्-प्रभा-वलय-भूरि-विभा-विभोस्ते,
लोक-त्रये-द्युतिमतां द्युति-माक्षिपन्ती ।
प्रोद्यद्-दिवाकर-निरन्तर-भूरि-संख्या,
दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥34॥
स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्ट:,
सद्धर्म-तत्त्व-कथनैक-पटुस्-त्रिलोक्या: ।
दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व-
भाषास्वभाव-परिणाम-गुणै: प्रयोज्य: ॥35॥
उन्निद्र-हेम-नव-पंकज-पुंज-कान्ती,
पर्युल्-लसन्-नख-मयूख-शिखाभिरामौ ।
पादौ पदानि तव यत्र जिनेन्द्र ! धत्त:,
पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥36॥
॥ अन्तरंग-बहिरंग लक्ष्मी के स्वामी मंत्र ॥
इत्थं यथा तव विभूति-रभूज्-जिनेन्द्र्र !
धर्मोपदेशन-विधौ न तथा परस्य ।
यादृक्-प्र्रभा दिनकृत: प्रहतान्धकारा,
तादृक्-कुतो ग्रहगणस्य विकासिनोऽपि ॥37॥
॥ हस्ती भय निवारण मंत्र ॥
श्च्यो-तन्-मदाविल-विलोल-कपोल-मूल,
मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम् ।
ऐरावताभमिभ-मुद्धत-मापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥38॥
॥ सिंह-भय-विदूरण मंत्र ॥
भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त,
मुक्ता-फल-प्रकरभूषित-भूमि-भाग: ।
बद्ध-क्रम: क्रम-गतं हरिणाधिपोऽपि,
नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥
॥ अग्नि भय-शमन मंत्र ॥
कल्पान्त-काल-पवनोद्धत-वह्नि-कल्पं,
दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम् ।
विश्वं जिघत्सुमिव सम्मुख-मापतन्तं,
त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् ॥40॥
॥ सर्प-भय-निवारण मंत्र ॥
रक्तेक्षणं समद-कोकिल-कण्ठ-नीलम्,
क्रोधोद्धतं फणिन-मुत्फण-मापतन्तम् ।
आक्रामति क्रम-युगेण निरस्त-शंकस्-
त्वन्नाम-नागदमनी हृदि यस्य पुंस: ॥41॥
॥ रण-रंगे-शत्रु पराजय मंत्र ॥
वल्गत्-तुरंग-गज-गर्जित-भीमनाद-
माजौ बलं बलवता-मपि-भूपतीनाम् ।
उद्यद्-दिवाकर-मयूख-शिखापविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति: ॥42॥
॥ रणरंग विजय मंत्र ॥
कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह,
वेगावतार-तरणातुर-योध-भीमे ।
युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-
त्वत्पाद-पंकज-वनाश्रयिणो लभन्ते: ॥43॥
॥ समुद्र उल्लंघन मंत्र ॥
अम्भोनिधौ क्षुभित-भीषण-नक्र-चक्र-
पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ ।
रंगत्तरंग-शिखर-स्थित-यान-पात्रास्-
त्रासं विहाय भवत: स्मरणाद्-व्रजन्ति: ॥44॥
॥ रोग-उन्मूलन मंत्र ॥
उद्भूत-भीषण-जलोदर-भार-भुग्ना:,
शोच्यां दशा-मुपगताश्-च्युत-जीविताशा: ।
त्वत्पाद-पंकज-रजो-मृत-दिग्ध-देहा:,
मत्र्या भवन्ति मकर-ध्वज-तुल्यरूपा: ॥45॥
॥ बन्धन मुक्ति मंत्र ॥
आपाद-कण्ठमुरु-शृंखल-वेष्टितांगा,
गाढं-बृहन्-निगड-कोटि निघृष्ट-जंघा: ।
त्वन्-नाम-मन्त्र-मनिशं मनुजा: स्मरन्त:,
सद्य: स्वयं विगत-बन्ध-भया भवन्ति: ॥46॥
॥ सकल भय विनाशन मंत्र ॥
मत्त-द्विपेन्द्र-मृग-राज-दवानलाहि-
संग्राम-वारिधि-महोदर-बन्ध-नोत्थम् ।
तस्याशु नाश-मुपयाति भयं भियेव,
यस्तावकं स्तव-मिमं मतिमानधीते: ॥47॥
॥ जिन-स्तुति-फल मंत्र ॥
स्तोत्र-स्रजं तव जिनेन्द्र गुणैर्निबद्धाम्,
भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम् ।
धत्ते जनो य इह कण्ठ-गता-मजस्रं,
तं मानतुंग-मवशा-समुपैति लक्ष्मी: ॥48॥
- आचार्य मानतुंग
Read More...
ॐ | ओ३म् | ओम | ओमकार (Om Aum)
ॐ | ओ३म् | ओम सबसे छोटा और सरल शब्द मंत्र है, जिसे बीज मंत्र के नाम से भी जाना जाता है।
ॐ (Om or Aum) is shortest and simplest one word mantra, also known as bija (seed) mantra.
Read More...
मंत्र पुष्पांजलि - ॐ यज्ञेन यज्ञमयजन्त (Mantra Pushpanjali)
पुष्पांजलि का अर्थ है फूलों से भरी हुई अंजलि जो किसी देवता अथवा महापुरुष को अर्पित की जाती है।
धार्मिक अनुष्ठानों अर्थात हवन, पूजन, आरती, ग्रहप्रवेश, विवाह कर्म या अन्य पूजन से संबंधित कार्यों में देव शक्तियों को मंत्र पुष्पांजलि अर्पित की जाती है, मंत्र पुष्पांजलि के बाद ही धार्मिक पूजा के अनुष्ठान पूर्ण होने की मान्यता है।
प्रथम:
ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥
द्वितीय:
ॐ राजाधिराजाय प्रसह्य साहिने।
नमो वयं वैश्रवणाय कुर्महे।
स मस कामान् काम कामाय मह्यं।
कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय।
महाराजाय नम: ।
तृतीय:
ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं ।
समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् ।
पृथीव्यै समुद्रपर्यंताया एकराळ इति ॥
चतुर्थ:
ॐ तदप्येषः श्लोकोभिगीतो।
मरुतः परिवेष्टारो मरुतस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
॥ मंत्रपुष्पांजली समर्पयामि ॥
Read More...
भगवान अयप्पा के 108 नाम (108 Names of Lord Ayyappa)
॥ श्री अय्यप्प अष्टोत्तरशतनामावलिः ॥
ॐ महाशास्त्रे नमः ।
ॐ महादेवाय नमः ।
ॐ महादेवसुताय नमः ।
ॐ अव्ययाय नमः ।
ॐ लोककर्त्रे नमः ।
ॐ लोकभर्त्रे नमः ।
ॐ लोकहर्त्रे नमः ।
ॐ परात्पराय नमः ।
ॐ त्रिलोकरक्षकाय नमः ॥ ९
ॐ धन्विने नमः ।
ॐ तपस्विने नमः ।
ॐ भूतसैनिकाय नमः ।
ॐ मन्त्रवेदिने नमः ।
ॐ महावेदिने नमः ।
ॐ मारुताय नमः ।
ॐ जगदीश्वराय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ अग्रगण्याय नमः ॥ १८
ॐ श्रीमते नमः ।
ॐ अप्रमेयपराक्रमाय नमः ।
ॐ सिंहारूढाय नमः ।
ॐ गजारूढाय नमः ।
ॐ हयारूढाय नमः ।
ॐ महेश्वराय नमः ।
ॐ नानाशास्त्रधराय नमः ।
ॐ अनघाय नमः ।
ॐ नानाविद्या विशारदाय नमः ॥ २७
ॐ नानारूपधराय नमः ।
ॐ वीराय नमः ।
ॐ नानाप्राणिनिषेविताय नमः ।
ॐ भूतेशाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भृत्याय नमः ।
ॐ भुजङ्गाभरणोज्वलाय नमः ।
ॐ इक्षुधन्विने नमः ।
ॐ पुष्पबाणाय नमः ॥ ३६ ।
ॐ महारूपाय नमः ।
ॐ महाप्रभवे नमः ।
ॐ मायादेवीसुताय नमः ।
ॐ मान्याय नमः ।
ॐ महनीयाय नमः ।
ॐ महागुणाय नमः ।
ॐ महाशैवाय नमः ।
ॐ महारुद्राय नमः ।
ॐ वैष्णवाय नमः ॥ ४५
ॐ विष्णुपूजकाय नमः ।
ॐ विघ्नेशाय नमः ।
ॐ वीरभद्रेशाय नमः ।
ॐ भैरवाय नमः ।
ॐ षण्मुखप्रियाय नमः ।
ॐ मेरुशृङ्गसमासीनाय नमः ।
ॐ मुनिसङ्घनिषेविताय नमः ।
ॐ देवाय नमः ।
ॐ भद्राय नमः ॥ ५४
ॐ जगन्नाथाय नमः ।
ॐ गणनाथाय नामः ।
ॐ गणेश्वराय नमः ।
ॐ महायोगिने नमः ।
ॐ महामायिने नमः ।
ॐ महाज्ञानिने नमः ।
ॐ महास्थिराय नमः ।
ॐ देवशास्त्रे नमः ।
ॐ भूतशास्त्रे नमः ॥ ६३
ॐ भीमहासपराक्रमाय नमः ।
ॐ नागहाराय नमः ।
ॐ नागकेशाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ सनातनाय नमः ।
ॐ सगुणाय नमः ।
ॐ निर्गुणाय नमः ।
ॐ नित्याय नमः ।
ॐ नित्यतृप्ताय नमः ॥ ७२
ॐ निराश्रयाय नमः ।
ॐ लोकाश्रयाय नमः ।
ॐ गणाधीशाय नमः ।
ॐ चतुःषष्टिकलामयाय नमः ।
ॐ ऋग्यजुःसामाथर्वात्मने नमः ।
ॐ मल्लकासुरभञ्जनाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ दैत्यमथनाय नमः ।
ॐ प्रकृतये नमः ॥ ८१
ॐ पुरुषोत्तमाय नमः ।
ॐ कालज्ञानिने नमः ।
ॐ महाज्ञानिने नमः ।
ॐ कामदाय नमः ।
ॐ कमलेक्षणाय नमः ।
ॐ कल्पवृक्षाय नमः ।
ॐ महावृक्षाय नमः ।
ॐ विद्यावृक्षाय नमः ।
ॐ विभूतिदाय नमः ॥ ९०
ॐ संसारतापविच्छेत्रे नमः ।
ॐ पशुलोकभयङ्कराय नमः ।
ॐ रोगहन्त्रे नमः ।
ॐ प्राणदात्रे नमः ।
ॐ परगर्वविभञ्जनाय नमः ।
ॐ सर्वशास्त्रार्थ तत्वज्ञाय नमः ।
ॐ नीतिमते नमः ।
ॐ पापभञ्जनाय नमः ।
ॐ पुष्कलापूर्णासम्युक्ताय नमः ॥ ९९
ॐ परमात्मने नमः ।
ॐ सताङ्गतये नमः ।
ॐ अनन्तादित्यसङ्काशाय नमः ।
ॐ सुब्रह्मण्यानुजाय नमः ।
ॐ बलिने नमः ।
ॐ भक्तानुकम्पिने नमः ।
ॐ देवेशाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तवत्सलाय नमः ॥ १०८
Read More...
अयमात्मा ब्रह्म महावाक्य (Ayamatma Brahma)
अयमात्मा ब्रह्म भारत के पुरातन हिंदू शास्त्रों व उपनिषदों में वर्णित महावाक्य है, जिसका शाब्दिक अर्थ है यह आत्मा ब्रह्म है।
उस स्वप्रकाशित प्रत्यक्ष शरीर से परे तत्त्व को 'अयं' पद के द्वारा प्रतिपादित किया गया है। शरीर तत्व को जीवित रखने वाली अप्रत्यक्ष शक्ति ही 'आत्मा' है। वह आत्मा ही परब्रह्म के रूप में समस्त प्राणियों में विद्यमान है। सम्पूर्ण चर-अचर जगत में तत्त्व-रूप में वह संव्याप्त है। वही ब्रह्म है, वही आत्मतत्त्व के रूप में स्वयं प्रकाशित 'आत्मतत्त्व' है।
यह मंत्र बद्रीनाथ धाम या ज्योतिर्मठ का भी महावाक्य है, जो कि उत्तर दिशा में स्थित भारत के चार धामों में से एक है।
महावाक्य का अर्थ होता है?
अगर इस एक वाक्य को ही अनुसरण करते हुए अपनी जीवन की परम स्थिति का अनुसंधान कर लें, तो आपका यह जीवन सफलता पूर्वक निर्वाह हो जाएगा। इसलिए इसको महावाक्य कहते हैं।
Read More...
सूर्य मंत्र (Surya Mantra)
रविवार का दिन श्रष्टी के प्रत्यक्ष देव भगवान सूर्य को समर्पित है। इसके साथ-साथ शुद्ध उच्चारण के करते हुए आदित्य ह्रदय स्तोत्र का पाठ भी अवश्य करना चाहिए।
भगवान सूर्यदेव के मंत्र -
Surya Mantra
ॐ ऐहि सूर्य सहस्त्रांशों तेजो राशे जगत्पते, अनुकंपयेमां भक्त्या, गृहाणार्घय दिवाकर: ।
ॐ ह्रीं घृणिः सूर्य आदित्यः क्लीं ॐ ।
ॐ ह्रीं ह्रीं सूर्याय नमः ।
ॐ सूर्याय नम: ।
ॐ घृणि सूर्याय नम: ।
Read More...
शंख पूजन मन्त्र (Shankh Poojan Mantra)
शंख को पूजा कार्य मे सम्लित करने हेतु, निम्न लिखित मंत्र का जप करना चाहिए।त्वंपुरा सागरोत्पन्न विष्णुनाविघृतःकरे ।
देवैश्चपूजितः सर्वथौपाच्चजन्यमनोस्तुते ॥
सरल भाव:
त्वं पुरा सागरोत्पन्न विष्णुना विधृत: करे ।
देवैश्चपूजितः सर्वथौ पाञ्चजन्य नमोऽस्तु ते ॥
Read More...
अष्टोत्तर भैरव नामावलि (Bhairav Stotram)
ॐ भैरवाय नमः
ॐ भूतनाथाय नमः
ॐ भूतात्मने नमः
ॐ भूतभावनाय नमः
ॐ क्षेत्रज्ञाय नमः
ॐ क्षेत्रपालाय नमः
ॐ क्षेत्रदाय नमः
ॐ क्षत्रियाय नमः
ॐ विराजे नमः
ॐ श्मशानवासिने नमः
ॐ मांसाशिने नमः
ॐ खर्वराशिने नमः
ॐ स्मरांतकाय नमः
ॐ रक्तपाय नमः
ॐ पानपाय नमः
ॐ सिद्दाय नमः
ॐ सिद्धिदाय नमः
ॐ सिद्धिसेविताय नमः
ॐ कंकालाय नमः
ॐ कालशमनाय नमः
ॐ कलाकाष्ठाय नमः
ॐ तनये नमः
ॐ कवये नमः
ॐ त्रिनेत्राय नमः
ॐ बहुनेत्राय नमः
ॐ पिंगललोचनाय नमः
ॐ शूलपाणये नमः
ॐ खड्गपाणये नमः
ॐ कपालिने नमः
ॐ धूम्रलोचनाय नमः
ॐ अभीरवे नमः
ॐ भैरवीनाथाय नमः
ॐ भूतपाय नमः
ॐ योगिनीपतये नमः
ॐ धनधाय नमः
ॐ धनहारिणे नमः
ॐ धनवते नमः
ॐ प्रीतीवर्धनाय नमः
ॐ नागहाराय नमः
ॐ नागपाशाय नमः
ॐ व्योमकेशाय नमः
ॐ कपालभर्ते नमः
ॐ कालाय नमः
ॐ कपालमालिने नमः
ॐ कमनीयाय नमः
ॐ कलानिधये नमः
ॐ त्रिलोचनाय नमः
ॐ ज्वलनेन्राय नमः
ॐ त्रिशिखने नमः
ॐ त्रिलोकेषाय नमः
ॐ त्रिनेत्रतनयाय नमः
ॐ डिम्भाय नमः
ॐ शान्ताय नमः
ॐ शांतजनप्रियाय नमः
ॐ बटुकाय नमः
ॐ बहुवेशाय नमः
ॐ खट्वांगधारकाय नमः
ॐ भूताध्यक्षाय नमः
ॐ पशुपतये नमः
ॐ भिक्षुकाय नमः
ॐ परिचारकाय नमः
ॐ धूर्ताय नमः
ॐ दिगम्बराय नमः
ॐ शराय नमः
ॐ हरिणे नमः
ॐ पांडुलोचनाय नमः
ॐ प्रशांताय नमः
ॐ शांतिदाय नमः
ॐ सिद्दाय नमः
ॐ शंकरप्रियबांधवाय नमः
ॐ अष्टमूर्तये नमः
ॐ निधीशाय नमः
ॐ ज्ञानचक्षुये नमः
ॐ तपोमदाय नमः
ॐ अष्टाधाराय नमः
ॐ षडाधाराय नमः
ॐ सर्पयुक्ताय नमः
ॐ शिखिसखाय नमः
ॐ भूधराय नमः
ॐ भूधराधीशाय नमः
ॐ भूपतये नमः
ॐ भुधरात्मज्ञाय नमः
ॐ कंकालधारिणे नमः
ॐ मुण्डिने नमः
ॐ नागयज्ञोपवीतवते नमः
ॐ ज्रम्भणाय नमः
ॐ मोहनाय नमः
ॐ स्तंभिने नमः
ॐ मारणाय नमः
ॐ क्षोभणाय नमः
ॐ शुद्धनीलांजनप्रख्याय नमः
ॐ दैत्यघ्ने नमः
ॐ मुंडभूषिताय नमः
ॐ बलिभूजे नमः
ॐ बलिभूतनाथाय नमः
ॐ बालाय नमः
ॐ बालपराक्रमाय नमः
ॐ सर्वपत्तारणाय नमः
ॐ दुर्गाय नमः
ॐ दुष्ट भूषिताय नमः
ॐ कामिने नमः
ॐ कलानिधये नमः
ॐ कांताय नमः
ॐ कामिनीवश कृद्वशिने नमः
ॐ सर्वसिद्धिप्रदाय नमः
ॐ वैद्याय नमः
ॐ प्रभवे नमः
ॐ विष्णवे नमः
Read More...
ॐ पूर्णमदः पूर्णमिदं - मंत्र (Purnamadah Purnamidam)
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांति, शांति, शांतिः
- [बृहदारण्यकोपनिषद / पञ्चमोऽध्यायः]
वह सच्चिदानंदघन परब्रह्म पुरुषोत्तम परमात्मा सभी प्रकार से सदा सर्वदा परिपूर्ण है। यह जगत भी उस परब्रह्म से पूर्ण ही है, क्योंकि यह पूर्ण उस पूर्ण पुरुषोत्तम से ही उत्पन्न हुआ है। इस प्रकार परब्रह्म की पूर्णता से जगत पूर्ण होने पर भी वह परब्रह्म परिपूर्ण है। पूर्णता से जगत पूर्ण होने पर भी वह परब्रह्म परिपूर्ण है। उस पूर्ण में से पूर्ण को निकाल देने पर भी वह पूर्ण ही शेष रहता है।
Read More...
येषां न विद्या न तपो न दानं (Yeshaan Na Vidya Na Tapo Na Danan)
येषां न विद्या न तपो न दानं,
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुविभारभूता,
मनुष्यरूपेण मृगाश्चरन्ति ॥ [चाणक्य नीति / 10 / 7]
हिन्दी भावार्थ:
जिन लोगों के पास न तो विद्या है, न तप, न दान, न शील, न गुण और न धर्म।
वे लोग इस पृथ्वी पर भार हैं और मनुष्य के रूप में मृग/जानवर की तरह से घूमते रहते हैं।
Read More...
श्री बाबोसा भगवान के 108 नाम: नामावली (Babosa Bhagwan 108 Naam)
बाबोसा भक्तों का यह विश्वास है कि जो भी श्री बाबोसा भगवान के 108 नामों का पूर्ण भक्ति एवं विश्वास से जाप करता है, श्री बाबोसा भगवान उसके हित में की गई हर मनोकामना पूर्ण करते हैं।
ओंकाराय नमः ।
ॐ बाबोसा देवाय नमः ।
ॐ पन्नाय नमः ।
ॐ छगनी सुताय नमः ।
ॐ चूरू निवासाय नमः ।
ॐ गदाधराय नमः ।
ॐ कृपाकराय नमः ।
ॐ ब्र्हमाचारिण नमः ।
ॐ कुमाराय नमः ।
ॐ घेवरचंद नन्दनाय नमः । 10
ॐ रोग्नाशनाय नमः ।
ॐ हनुमत रूपाय नमः ।
ॐ हनुमत प्रियाय नमः ।
ॐ जीवन दात्रे नमः ।
ॐ मृत्यु हराय नमः ।
ॐ जयाय नमः ।
ॐ विजयाय नमः ।
ॐ भक्त मनः स्थिताय नमः ।
ॐ कष्ट हराय नमः ।
ॐ संकट विमोचनाय नमः । 20
ॐ शांति दूताय नमः ।
ॐ बाला रूपाय नमः ।
ॐ महाबलाय नमः ।
ॐ वरदाय नमः ।
ॐ कलियुग वरदाय नमः ।
ॐ भक्त ईष्ट देवता रूपाय नमः ।
ॐ भक्त कुल देवता रूपाय नमः ।
ॐ तपस्फलाय नमः ।
ॐ कोठारी कुल दीपाय नमः ।
ॐ हनुमत नाम जपकराय नमः । 30
ॐ हनुमत ह्रदय स्थिताय नमः ।
ॐ नीलवर्ण अश्वारूढाय नमः ।
ॐ प्रत्यक्ष देवताय नमः ।
ॐ वंश वृद्धिकराय नमः ।
ॐ सौभाग्य दात्रे नमः ।
ॐ दुर्भाग्य नाशनाय नमः ।
ॐ सुख समृद्धि प्रदायकाय नमः ।
ॐ जन्मान्तर ऋण विमोचनाय नमः ।
ॐ सौम्य मूर्तिने नमः ।
ॐ शांति स्वरूपाय नमः । 40
ॐ ज्योति स्वरूपाय नमः ।
ॐ भक्त वत्सलाय नमः ।
ॐ लोक नायकाय नमः ।
ॐ लोक रक्षकाय नमः ।
ॐ भय नाशनाय नमः ।
ॐ तंत्र शक्ति हरायकाय नमः ।
ॐ भूत प्रेत पिशाच नाशनाय नमः ।
ॐ स्वर्ण मुकुट धारणाय नमः ।
ॐ कर्ण कुंडल धारणाय नमः ।
ॐ आत्म शुद्धाय नमः । 50
ॐ काम क्रोध नाशनाय नमः ।
ॐ मातृ पितृ भक्ताय नमः ।
ॐ कालान्तकाय नमः ।
ॐ कालहराय नमः ।
ॐ कारागृह विमोक्त्रे नमः ।
ॐ चिरंजीविने नमः ।
ॐ उज्ज्वलाय नमः ।
ॐ कीर्तर्ये नमः ।
ॐ भक्त मान संरक्षणाय नमः ।
ॐ शरणागत रक्षकाय नमः । 60
ॐ त्रैलोक्य अधिपतये नमः ।
ॐ सर्व देव स्वरूपाय नमः ।
ॐ बुद्धि दात्रे नमः ।
ॐ रिद्धि सिद्धि दात्रे नमः ।
ॐ विद्या दात्रे नमः ।
ॐ शांति दात्रे नमः ।
ॐ योग मूर्तये नमः ।
ॐ धर्म रक्षकाय नमः ।
ॐ महावीराय नमः ।
ॐ मार्ग बंधवे नमः । 70
ॐ मार्ग दर्शकाय नमः ।
ॐ दुर्विचार नाशनाय नमः ।
ॐ सदगति प्रदाय नमः ।
ॐ अतुल्याय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ प्रसादाय नमः ।
ॐ दुष्ट गृह निहन्त्रे नमः ।
ॐ पिशाच गृह घातकाय नमः ।
ॐ बाल गृह विनाशाय नमः ।
ॐ सचिदानान्दाय नमः । 80
ॐ पुरुषोत्तमाय नमः ।
ॐ सर्वभोमाया नमः ।
ॐ उत्तम श्री परिवाराय नमः ।
ॐ राम चरित्र भजनाय नमः ।
ॐ अपार करुणामूर्तये नमः ।
ॐ धैर्य प्रदायकाय नमः ।
ॐ सूर्य कोटिप्रकाशाय नमः ।
ॐ मंगल प्रदायकाय नमः ।
ॐ माया निकृत्तकाय नमः ।
ॐ अभस्मराय नमः । 90
ॐ ज्ञान विग्रहाय नमः ।
ॐ एकाय नमः ।
ॐ अनेकाय नमः ।
ॐ गुणाय नमः ।
ॐ गुण निधवे नमः ।
ॐ जगत गुरुवे नमः ।
ॐ दिव्य औषधि बसाय नमः ।
ॐ शोकहारिणे नमः ।
ॐ मिष्ठान प्रियाय नमः ।
ॐ बलभुजे नमः । 100
ॐ सन्मार्ग स्थापित नमः ।
ॐ कीर्तन प्रियाय नमः ।
ॐ शाकिनी डाकिनी यक्ष रक्षा भूत प्रपंचनाय नमः ।
ॐ भस्मरुपेण औषधि प्रदाय नमः ।
ॐ जल रुपेण व्याधि निवृत्तकाय नमः ।
ॐ मंजु ह्रदया स्थिताय नमः ।
ॐ प्रकाश गृहस्थिताय नमः ।
ॐ मोक्ष दात्रे नमः । 108
◉ श्री हनुमंत लाल की पूजा आराधना में हनुमान चालीसा, बजरंग बाण और संकटमोचन अष्टक का पाठ बहुत ही प्रमुख माने जाते हैं।
Read More...
श्री यमुनाष्टक (Shri Yamunashtakam)
नमामि यमुनामहं सकल सिद्धि हेतुं मुदा
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम ।
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥
कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता ।
सघोषगति दन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥
भुवं भुवनपावनीमधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरंगभुजकंकण प्रकटमुक्तिकावाकुका-
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥
अनन्तगुण भूषिते शिवविरंचिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
विशुद्ध मथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥
यया चरणपद्मजा मुररिपोः प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवताम ।
तया सह्शतामियात्कमलजा सपत्नीवय-
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥
नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः ।
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥
ममास्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये ।
अतोस्तु तव लालना सुरधुनी परं सुंगमा-
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥
स्तुति तव करोति कः कमलजासपत्नि प्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
इयं तव कथाधिका सकल गोपिका संगम-
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥
तवाष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः ॥९॥
॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥
Read More...